|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.196. अध्यायः 196
Mahabharata - Adi Parva - Chapter Topics
पितॄणां निदेशेन और्वस्य समुद्रे क्रोधत्यागः॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
और्व उवाच। 1-196-0x(1118)(8753)
उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा।
सर्वलोकविनाशाय न सा मे वितथा भवेत्॥ 1-196-1(8754)
वृथारोषप्रतिज्ञो वै नाहं जीवितुमुत्सहे।
अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम्॥ 1-196-2(8755)
यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति।
नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम्॥ 1-196-3(8756)
अशिष्टानां नियन्ता हि शिष्टानां परिरक्षिता।
स्थाने रोषः प्रयुक्तः स्यान्नृपैः सर्वजिगीषुभिः॥ 1-196-4(8757)
अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा।
आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे॥ 1-196-5(8758)
सामरैर्हि यदा लोके भृगूणां क्षत्रियाधमैः।
आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविशत्॥ 1-196-6(8759)
प्रकीर्णकेशाः किल मे मातरः पितरस्तथा।
भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम्॥ 1-196-7(8760)
तान्भृगूणां यदा दारान्कश्चिन्नाभ्युपपद्यत।
माता तदा दधारेयमूरुणैकेन मां शुभा॥ 1-196-8(8761)
प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते।
तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते॥ 1-196-9(8762)
यदा तु प्रतिषेद्धारं पापो न लभते क्वचित्।
तिष्ठन्ति बहवो लोकास्तदा पापेषु कर्मसु॥ 1-196-10(8763)
जानन्नपि च यः पापं शक्तिमान्न नियच्छति।
ईशः सन्सोऽपि तेनैव कर्मणा संप्रयुज्यते॥ 1-196-11(8764)
राजभिश्चेश्वरैश्चैव यदि वै पितरो मम।
शक्तैर्न शकितास्त्रातुमिष्टं मत्वेह जीवितम्॥ 1-196-12(8765)
अत एषामहं क्रुद्धो लोकानामीश्वरो ह्यहम्।
भवतां च वचो नालमहं समभिवर्तितुम्॥ 1-196-13(8766)
ममापि चेद्भवेदेवमीश्वरस्य सतो महत्।
उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम्॥ 1-196-14(8767)
यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति।
दहेदेष च मामेव निगृहीतः स्वतेजसा॥ 1-196-15(8768)
भवतां च विजानामि सर्वलोकहितेप्सुताम्।
तस्माद्विधद्ध्वं यच्छ्रेयो लोकानां मम चेश्वराः॥ 1-196-16(8769)
पितर ऊचुः। 1-196-17x(1119)
य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति।
अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः॥ 1-196-17(8770)
आपोमयाः सर्वरसाः सर्वमापोमयं जगत्।
तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम॥ 1-196-18(8771)
अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ।
मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः॥ 1-196-19(8772)
एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति।
न चैवं सामरा लोका गमिष्यन्ति पराभवम्॥ 1-196-20(8773)
वसिष्ठ उवाच। 1-196-21x(1120)
ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये।
उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ॥ 1-196-21(8774)
महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः।
तमग्निमुद्हिरद्वक्त्रात्पिबत्यापो महोदधौ॥ 1-196-22(8775)
तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि।
पराशरं पराँल्लोकाञ्जानञ्ज्ञानवतां वर॥ ॥ 1-196-23(8776)
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि षण्णवत्यधिकशततमोऽध्यायः॥ 196 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-196-2 अनिस्तीर्णोऽकृतकार्यः॥ 1-196-8 तद्भृगूणां राजा कश्चिन्नाभ्युपपद्यते इति ङ. पाठः॥ 1-196-21 उपयुङ्क्ते भक्षयति॥ 1-196-22 हयशिरः वडवामुखम्॥ षण्णवत्यधिकशततमोऽध्यायः॥ 196 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|